(1) मरीचि के पुत्र कश्यप प्रजापति थे। ब्रह्मदेव की दाहिनी हाथ की बोटे की नली से दक्ष नाम का पुरुष और बाएँ हाथ की बोटे की नली से धरनी नाम की स्त्री जन्मीं। उन दोनों से एक हज़ार-हज़ार महा ऋषि जन्मे। (2) ब्रह्मा के मानस पुत्रों में दूसरे स्थान पर रहने वाले अंगिरस्‍ु को उद्दध्य, बृहस्पति और संवर्त जैसे पुत्र हुए। बृहस्पति देवताओं के आचार्य बने। (3) मैत्रि (अत्रि) नामक मानस पुत्र से अनेक महा मुनि जन्मे। (4) पुलस्त्य नामक ब्रह्मा के मानस पुत्र से राक्षसों का जन्म हुआ। (5) पुलह नामक मानस पुत्र से किन्नर और किमपुरुष वर्ग उत्पन्न हुए। (6) क्रतू नामक मानस पुत्र से पक्षियों की जाति उत्पन्न हुई।

   
    

Aadiparv (Mahabharat) - आदिपर्व (महाभारत)


॥ श्रीः ॥
1.154. अध्यायः 154
(अथ जतुगृहपर्व ॥ 8 ॥)
Mahabharata - Adi Parva - Chapter Topics
संग्रहेण जतुगृहदाहकथनम्॥ 1 ॥ पुनर्विस्तरेण जतुगृहदाहकथनारम्भः॥ 2 ॥ दुर्योधनधृतराष्ट्रसंवादः॥ 3 ॥
Mahabharata - Adi Parva - Chapter Text

वैशम्पायन उवाच। 1-1534-0x(913)(7077)
कणिकस्य मतं श्रुत्वा कार्त्स्न्येन भरतर्षभ।
दुर्योधनश्च कर्णश्च शकुनिश्चापि सौबलः।
दुशासनचतुर्थास्ते मन्त्रयामासुरेकदा॥ 1-154-1(7078)
ते कौरव्यमनुज्ञाप्य धृतराष्ट्रं नराधिपम्।
दहने तु सपुत्रायाः कुन्त्या बुद्धिमकारयन्॥ 1-154-2(7079)
तेषामिङ्गितभावज्ञो विदुरस्तत्त्वदर्शिवान्।
आकारेण च तं मन्त्रं बुबुधे दुष्टचेतसाम्॥ 1-154-3(7080)
ततो विदितवेद्यात्मा पाण्डवानां हिते रतः।
पलायने मतिं चक्रे कुन्त्याः पुत्रैः सहानघः॥ 1-154-4(7081)
ततो वातसहां नावं यन्त्रयुक्तां पताकिनीम्।
ऊर्मिक्षमां दृढां कृत्वा कुन्तीमिदमुवाच ह॥ 1-154-5(7082)
एष जातः कुलस्यास्य कीर्तिवंशप्रणाशनः।
धृतराष्ट्रः परीतात्मा धर्मं त्यजति शाश्वतम्॥ 1-154-6(7083)
इयं वारिपथे युक्ता तरङ्गपवनक्षमा।
नौर्यया मृत्युपाशात्त्वं सपुत्रा मोक्ष्यसे शुभे॥ 1-154-7(7084)
तच्छ्रुत्वा व्यथिता कुन्ती पुत्रैः सह यशस्विनी।
नावमारुह्य गङ्गायां प्रययौ भरतर्षभ॥ 1-154-8(7085)
ततो विदुरवाक्येन नावं विक्षिप्य पाण्डवाः।
धनं चादाय तैर्दत्तमरिष्टं प्राविशन्वनम्॥ 1-154-9(7086)
निषादी पञ्चपुत्रा तु जातेषु तत्र वेश्मनि।
कारणाभ्यागता दग्धा सह पुत्रैरनागसा॥ 1-154-10(7087)
स च म्लेच्छाधमः पापो दग्धस्तत्र पुरोचनः।
वञ्चिताश्च दुरात्मानो धार्तराष्ट्राः सहानुगाः॥ 1-154-11(7088)
अविज्ञाता महात्मनो जनानामक्षतास्तथा।
जनन्या सह कौन्तेया मुक्ता विदुरमन्त्रिताः॥ 1-154-12(7089)
ततस्तस्मिन्पुरे लोका नगरे वारणावते।
दृष्ट्वा जतुगृहं दग्धमन्वशोचन्त दुःखिताः॥ 1-154-13(7090)
प्रेषयामासू राजानं यथावृत्तं निवेदितुम्।
संवृतस्ते महान्कामः पाण्डवान्दग्धवानसि॥ 1-154-14(7091)
सकामो भव कौरव्य भुङ्क्ष्व राज्यं सपुत्रकः।
तच्छ्रुत्वा धृतराष्ट्रस्तु सहपुत्रेण शोचयन्॥ 1-154-15(7092)
प्रेतकार्याणि च तथा चकार सह बान्धवैः।
पाण्डवानां तथा क्षत्ता भीष्मश्च कुरुसत्तमः॥ 1-154-16(7093)
जनमेजय उवाच। 1-154-17x(914)
पुनर्विस्तरशः श्रोतुमिच्छामि द्विजसत्तम।
दाहं जतुगृहस्यैव पाण्डवानां च मोक्षणम्॥ 1-154-17(7094)
सुनृशंसमिदं कर्म तेषां क्रूरोपसंहितम्।
कीर्तयस्व यथावृत्तं परं कौतूहलं मम॥ 1-154-18(7095)
वैशम्पायन उवाच। 1-154-19x(915)
शृणु विस्तरशो राजन्वदतो मे परन्तप।
दाहं जतुगृहस्यैतत्पाण्डवानां च मोक्षणम्॥ 1-154-19(7096)
वैशम्पायन उवाच। 1-154-20x(916)
ततो दुर्योधनो राजा धृतराष्ट्रमभाषत।
पाण्डवेभ्यो भयं नः स्यात्तान्विवासयतां भवान्।
निपुणेनाभ्युपायेन नगरं वारणावतम्॥ 1-154-20(7097)
धृतराष्ट्रस्तु पुत्रेण श्रुत्वा वचनमीरितम्।
मुहूर्तमिव संचिन्त्य दुर्योधनमथाब्रवीत्॥ 1-154-21(7098)
धर्मनित्यः सदा पाण्डुस्तथा धर्मपरायणः।
सर्वेषु ज्ञातिषु तथा मयि त्वासीद्विशेषतः॥ 1-154-22(7099)
नासौ किंचिद्विजानाति भोजनादिचिकीर्षितम्।
निवेदयति नित्यं हि मम राज्यं धृतव्रतः॥ 1-154-23(7100)
तस्य पुत्रो यथा पाण्डुस्तथा धर्मपरायणः।
गुणवान्लोकविख्यातः पौरवाणां सुसंमतः॥ 1-154-24(7101)
स कथं शक्यतेऽस्माभिरपाकर्तुं बलादितः।
पितृपैतामाहाद्राज्यात्ससहायो विशेषतः॥ 1-154-25(7102)
भृता हि पाण्डुनाऽमात्या बलं च सततं भृतम्।
भृताः पुत्राश्च पौत्राश्च तेषामपि विशेषतः॥ 1-154-26(7103)
ते पुरा सत्कृतास्तात पाण्डुना नागरा जनाः।
कथं युधिष्ठिरस्यार्थे न नो हन्युः सबान्धवान्॥ 1-154-27(7104)
दुर्योधन उवाच। 1-154-28x(917)
एवमेतन्मया तात भावितं दोषमात्मनि।
दृष्ट्वा प्रकृतयः सर्वा अर्थमानेन पूजिताः॥ 1-154-28(7105)
ध्रुवमस्मत्सहायास्ते भविष्यन्ति प्रधानतः।
अर्थवर्गः सहामात्यो मत्संस्थोऽद्य महीपते॥ 1-154-29(7106)
स भवान्पाण्डवानाशु विवासयितुमर्हति।
मृदुनैवाभ्युपायेन नगरं वारणावतम्॥ 1-154-30(7107)
यदा प्रतिष्ठितं राज्यं मयि राजन्भविष्यति।
तदा कुन्ती सहापत्या पुनरेष्यति भारत॥ 1-154-31(7108)
धृतराष्ट्र उवाच। 1-154-32x(918)
दुर्योधन ममाप्येतद्धृदि संपरिवर्तते।
अभिप्रायस्य पापत्वान्नैवं तु विवृणोम्यहम्॥ 1-154-32(7109)
न च भीष्मो न च द्रोणो न च क्षत्ता न गौतमः।
विवास्यमानान्कौन्तेयाननुमंस्यन्ति कर्हिचित्॥ 1-154-33(7110)
समा हि कौरवेयाणां वयं ते चैव पुत्रक।
नैते विषममिच्छेयुर्धर्मयुक्ता मनस्विनः॥ 1-154-34(7111)
ते वयं कौरवेयाणामेतेषां च महात्मनाम्।
कथं न वध्यतां तात गच्छाम जगतस्तथा॥ 1-154-35(7112)
दुर्योधन उवाच। 1-154-36x(919)
मध्यस्थः सततं भीष्मो द्रोणपुत्रो मयि स्थितः।
यतः पुत्रस्ततो द्रोणो भविता नात्र संशयः॥ 1-154-36(7113)
कृपः शारद्वतश्चैव यत एतौ ततो भवेत्।
द्रोणं च भागिनेयं च न स त्यक्ष्यति कर्हिचित्॥ 1-154-37(7114)
क्षत्ताऽर्थबद्धस्त्वस्माकं प्रच्छन्नं संयतः परैः।
न चैकः स समर्थोऽस्मान्पाम्डवार्थेऽधिबाधितुम्॥ 1-154-38(7115)
सुविस्रब्धः पाण्डुपुत्रान्सह मात्रा प्रवासय।
वारणावतमद्यैव यथा यान्ति यथा कुरु॥ 1-154-39(7116)
विनिद्रकरणं घोरं हृदि शल्यमिवार्पितम्।
शोकपावकमुद्भूतं कर्मणैतेन नाशय॥ ॥ 1-154-40(7117)

इति श्रीमन्महाभारते आदिपर्वणि जतुगृहपर्वणि चतुःपञ्चाशदधिकशततमोऽध्यायः॥ 154 ॥

Mahabharata - Adi Parva - Chapter Footnotes
1-154-2 अनुज्ञाप्य पृष्ट्वा॥ 1-154-3 इङ्गितं चेष्टितं तेन भावं चित्ताभिप्रायं जानातीति इङ्गितभावज्ञः॥ 1-154-4 विदितवेद्यो ज्ञाततत्त्व आत्मा चित्तं यस्य॥ 1-154-5 यन्त्रयुक्तां यन्त्रं महत्यपि वाते जलाशये नौकास्तम्भकं लोहलङ्गलमयम्॥ 1-154-9 अरिष्टं निर्विघ्नम्॥ 1-154-18 क्रूरेण कणिकेनोपसंहितमुपदिष्टम्॥ चतुःपञ्चाशदधिकशततमोऽध्यायः॥ 154 ॥


Mahabharat- Hindi (Devanagari) 100000 shlokas

www.sanatanadharm.com - play store app (sanatana dharm)

"Bharathiya Sanatana Dharm" and Sanatana Dharmam & Dharmo rakshati Rakshitha logo are our trademarks. Unauthorised use of "Sanatana Dharmam & Dharmo rakshoati Rakshitha" and the logo is not allowed. Copyright © sanatanadharm.com All Rights Reserved . Made in India.